CBSE Board Exam 2025-26 : गद्यांश, पद्यांश एवं नाट्यांश सहित अभ्यासप्रश्नाः[Question12-14]
CBSE बोर्ड परीक्षा 2025-26 के संस्कृत प्रश्न-पत्र से गद्यांश, पद्यांश एवं नाट्यांश सहित महत्त्वपूर्ण प्रश्नों का संकलन। विद्यार्थियों के लिए अभ्यास हेतु उपयोगी सामग्री।
By SanskritLearn
प्रश्न 12 : गद्यांशः
गद्यांशम्
एकदा भगवान् बोधिसत्त्वः बहुजन्मार्जितपुण्यफलै: शिविनां राजा अभवत्। सः बाल्यात् एव वृद्धोपसेवी, विनयशीलः,शास्त्रपारङ्गत: आसीत्। जनकल्याणकार्यरत: सः असौ पुत्रवत् प्रजाः पालयति स्म। कारुण्येन अतिथिसत्कारगुणेन च सः नगरस्य समन्ततः धन-धान्यसमृद्धाः दानशालाः अकारयत्। राज्ञः दानशीलताम् आकर्ण्य देशान्तरेभ्यः अपि जनाः तं देशम् आयान्ति स्म। अथ कदाचित् दानशालासु विचरन् सः राजा बहुधनलाभेन सन्तुष्टानाम् अर्थिनां विरलसङ्ख्यां विलोक्य चिन्तयत्— मम अर्थिनः तु धनलाभमात्रेण सन्तोषं भजन्ते। तत्र अर्थिनां समूहः अन्न-पान-वसन-रजत-सुवर्णादिकानि अभीष्टानि वस्तुनि प्राप्य सन्तुष्टः अभवत्।
प्रश्नाः
#### (क) एकपदेन उत्तरत (केवलं प्रश्नद्वयम्)
- कः शिविनां राजा अभवत्?
- राजा कथं प्रजाः पालयति स्म?
- विरलसङ्ख्या केषाम् अभवत्?
#### (ख) पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयम्)
- राजा बाल्यात् एव कीदृशः आसीत्?
- जनाः किमर्थं तं देशम् आयान्ति स्म?
- दानशालासु विचरन् सः राजा किम् अचिन्तयत्?
#### (ग) निर्देशानुसारम् उत्तरत (केवलं प्रश्नद्वयम्)
- ‘असौ पुत्रवत् प्रजाः पालयति स्म’ अत्र किं क्रियापदं प्रयुक्तम्?
- ‘भगवान्’ इति विशेषणपदस्य विशेष्यपदं किम्?
- ‘वस्त्रम्’ इति पदस्य किं पर्यायपदम् अत्र प्रयुक्तम्?
---
प्रश्न 13 : पद्यांशः
पद्यांशः
वाक्पटुर्धैयवान् मन्त्री सभायामप्यकातरः।
सः केनापि प्रकारेण परैः न परिभूयते
यः इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म सः परेभ्यः कदापि च॥
प्रश्नाः
#### (क) एकपदेन उत्तरत (केवलं प्रश्नद्वयम्)
- मन्त्री कैः न परिभूयते?
- मनुष्यः आत्मनः किं इच्छति?
- मनुष्यः कीदृशं कर्म न कुर्यात्?
#### (ख) पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयम्)
- यः आत्मनः श्रेयः इच्छति, सः किं न कुर्यात्?
- मन्त्री कीदृशः भवेत्?
- मन्त्री कुत्र अकातरः भवेत्?
#### (ग) निर्देशानुसारम् उत्तरत (केवलं प्रश्नद्वयम्)
- ‘सः केनापि प्रकरणे परैः न परिभूयते’ अत्र कर्तृपदं किम्?
- ‘दुःखानि’ इत्यस्य किं विपरीतपदम् अत्र प्रयुक्तम्?
- ‘धैर्यवान्’ इत्यस्य विशेष्यपदं चिनुत।
---
प्रश्न 14 : नाट्यांशः
नाट्यांशः
राजीवः — किम् एतत् कस्यचित् दुर्गस्य चित्रम् ?
पर्यटनाधिकारी — आम्। एतत् दिवाङ्ग-उपरिक्रममण्डले स्थितं भीष्मकनगरदुर्गम्। अस्य अवशेषाः तु आर्य- कला -संस्कृति-सम्पदः परिचायकाः। अधुना इदं चित्रं पश्यत।
शैलेशः — अहं जानामि इदं स्थानम्। इदं तवाङ्ग गोम्पा इति प्रसिद्धः बौद्धमठः।
पर्यटनाधिकारी — सम्यक् अभिज्ञातम्। मनोहरे सुन्दरं तवाङ्ग इति स्थले राजते अयं बौद्धमठः। पञ्चशतानां बौद्धभिक्षूणां निवासयोग्या स्थली इयम्। लोहितजनपदे अपि अनेकबौद्धविहाराः सन्ति।
नीलिमा — महोदय! मया अन्यप्रदेशस्य ‘परशुरामकुण्डम्’ इति दर्शनीयस्थलविषये अपि पठितम्। किम् इदम्?
प्रश्नाः
#### (क) एकपदेन उत्तरत (केवलं प्रश्नद्वयम्)
- भीष्मकनगरदुर्गं कस्मिन् मण्डले स्थितम्?
- कस्मिन् जनपदे अनेके बौद्धविहाराः सन्ति?
- कस्य अवशेषाः आर्यकला-संस्कृति-सम्पदः परिचायकाः सन्ति?
#### (ख) पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयम्)
- प्रसिद्धः बौद्धमठः कः वर्तते?
- भीष्मकनगरदुर्गस्य अवशेषाः केषां परिचायकाः सन्ति?
- ‘परशुरामकुण्डम्’ किं अस्ति?
#### (ग) निर्देशानुसारम् उत्तरत (केवलं प्रश्नद्वयम्)
- ‘विहाराः सन्ति’ इति वाक्ये कर्तृपदं किम्?
- ‘अधुना इदं चित्रं पश्यत’ अत्र ‘चित्रम्’ विशेष्यपदस्य विशेषणपदं किम्?
- ‘राजते अयं बौद्धमठः’ अस्मिन् वाक्ये क्रियापदं किम्?