कक्षा: 9–10 विषयः: संस्कृतम् ,अध्यायः-चित्रवर्णनम् /अत्र पञ्च विषया: सन्ति— {उद्यानम् , विद्यालयः , आपणः (बाज़ार), समुद्रतटः,पुस्तकालयः}
कक्षा: 9–10 विषयः: संस्कृतम् अध्यायः: चित्रवर्णनम् / चित्रलेखनम् उद्देश्यम्: चित्रं दृष्ट्वा सरलया संस्कृतभाषया स्वविचाराणाम् अभिव्यक्तिः।
By SanskritLearn
चित्रलेखनम् — संस्कृत में चित्रवर्णन [मञ्जूषा ---उद्यानम्,बालका:,बालिका:,क्रीडन्ति,वृक्षा:,दोला;,अस्ति,रमणीयम्, प्रसन्नाः,केचन ] १. उद्यानस्य चित्रवर्णनम् 1-एतत् उद्यानस्य चित्रम् अस्ति। 2-अत्र बालकाः क्रीडन्ति। 3-केचन बालकाः कन्दुकेन क्रीडन्ति। 4-उद्याने वृक्षाः, पुष्पाणि च सन्ति। 5-अत्र दोलाः तथा सर्पणपट्टिका च सन्ति। 6-केचन बालकाः दोलायां क्रीडन्ति। 7-केचन जनाः उद्याने भ्रमन्ति। 8-उद्यानस्य वातावरणं रमणीयम् अस्ति। 9-सर्वे बालकाः प्रसन्नाः सन्ति। 10-उद्यानं सर्वेषां मनोरञ्जनाय उपयोगी अस्ति।
२. विद्यालयस्य चित्रवर्णनम्[- मञ्जूषा ---विद्यालय:,कक्षा,छात्रा:,भित्तौ,श्यामपट्ट:,अस्ति, ददाति ,घटिका ,स्वच्छा ] 1-एतत् विद्यालयस्य चित्रम् अस्ति। 2-अत्र छात्राः कक्षायां पठन्ति। 3-अध्यापिका छात्रेभ्यः पाठं बोधयति। 4-सर्वे छात्राः ध्यानपूर्वकं शृण्वन्ति। 5-छात्राः पुस्तकानि ध्यानेन पठन्ति । 6-कक्षायां पीठिका: आसन्दाः च सन्ति। 7-भित्तौ घटिका अपि अस्ति। 8-कक्षायां एकः श्यामपट्टः अस्ति। 9-श्यामपट्टे ‘विद्या ददाति विनयम्’ इति लिखितम् अस्ति। 10-कक्षा शान्ता स्वच्छा च अस्ति।
३. आपणस्य चित्रवर्णनम्[- मञ्जूषा --आपणस्य ,क्रय-विक्रयं,आपणेषु ,क्रीणन्ति,रमणीयं ,विक्रीयन्ते, कुर्वन्ति, वस्तूनि ] 1-एतत् आपणस्य चित्रम् अस्ति। 2-अत्र बहवः जनाः सन्ति। 3-जनाः वस्तूनां क्रय-विक्रयं कुर्वन्ति। 4-विक्रेता ग्राहकाय वस्तूनि ददाति। 5-आपणेषु फलानि शाकानि च दृश्यन्ते। 6-अत्र विविधाः फलानि शाकानि च विक्रीयन्ते। 7-केचन जनाः वस्तूनि क्रीणन्ति। 8-विक्रेतारः ग्राहकान् आह्वयन्ति। 9-आपणस्य वातावरणं चञ्चलं रमणीयं च अस्ति। 10-सर्वे जनाः क्रय-विक्रये व्यस्ताः सन्ति।
४. समुद्रतटस्य चित्रवर्णनम्--[मञ्जूषा -समुद्रतटस्य ,बालुकया ,समुद्रे ,पक्षिणः,नारिकेलवृक्षाः ,अस्तं, मनोहरं ,आकाशे , तरङ्गाः,सूर्यः ] 1-एतत् समुद्रतटस्य चित्रम् अस्ति। 2-अत्र बालकाः क्रीडन्ति। 3-केचन बालकाः बालुकया गृहं निर्मान्ति। 4-समुद्रे तरङ्गाः उद्भवन्ति। 5-समुद्रे नौकाः चलन्ति। 6-आकाशे पक्षिणः उड्डयन्ति। 7-समुद्रतटे नारिकेलवृक्षाः सन्ति। 8-जनाः समुद्रतटे भ्रमन्ति। 9-सूर्यः अस्तं गच्छति। 10-समुद्रतटस्य वातावरणं रमणीयं मनोहरं च अस्ति।
५. पुस्तकालयस्य चित्रवर्णनम्-[मञ्जूषा --पुस्तकालये ,बहूनि ,पुस्तकानि ,ध्यानपूर्वकं,शान्तं ,स्वच्छं ,सदुपयोगः ,करणीयः, अस्माभिः 1-एतत् पुस्तकालयस्य चित्रम् अस्ति। 2-अत्र छात्राः पठन्ति। 3-पुस्तकालये बहूनि पुस्तकानि सन्ति। 4-छात्राः पुस्तकानि पठन्ति तथा लिखन्ति च। 5-पुस्तकेषु विविधाः विषयाः वर्णिताः सन्ति। 6-छात्राः पुस्तकानि ध्यानपूर्वकं पठन्ति। 7-पुस्तकालये सर्वे शान्ताः सन्ति। 8-पुस्तकालयस्य वातावरणं शान्तं स्वच्छं च अस्ति। 9-पुस्तकं ज्ञानस्य महत्त्वपूर्णं साधनम् अस्ति। 10-अतः अस्माभिः पुस्तकालयस्य सदुपयोगः करणीयः।