कक्षा 10 संस्कृत व्याकरण 2026–27 | CBSE पाठ्यक्रमानुसार 25 अङ्क
CBSE कक्षा 10 संस्कृत (सम्प्रेषणात्मकम्) के सत्र 2026–27 के पाठ्यक्रमानुसार 25 अङ्कीय अनुप्रयुक्तव्याकरण अभ्यास-प्रश्नपत्र। इसमें सन्धि, समास, प्रत्यय, वाच्यपरिवर्तनम्, समय, अव्यय तथा अशुद्धि-संशोधनम् के बोर्ड परीक्षा-शैली के प्रश्न दिए गए हैं।
By SanskritLearn
कक्षा 10 संस्कृत — अनुप्रयुक्तव्याकरणम् CBSE Board Exam Pattern पर आधारित 25 अङ्कीय प्रश्नपत्र पाठ्यक्रमानुसार व्याकरण-अभ्यास — सत्र 2026–27
विषय: संस्कृतम् (सम्प्रेषणात्मकम्) कक्षा: दशमी विषय-कोड: 119 पूर्णाङ्काः: 25 प्रश्नसंख्या: 5–11
प्रश्न 5. सन्धिः — 4 अङ्काः
अधोलिखितेषु उचितं सन्धिपदम् चित्वा लिखत। (1 × 4 = 4)
(क) महा + ऐश्वर्यम् = (अ) महैश्वर्यम् (आ) महेश्वर्यम् (इ) महायश्वर्यम् (ई) महैश्वर्म्
(ख) इति + आदि = (अ) इत्यादि (आ) इतिआदि (इ) इत्येादि (ई) इतादी
(ग) ते + अपि = (अ) तेऽपि (आ) तैऽपि (इ) तयपि (ई) तेपि
(घ) वाक् + मयम् = (अ) वाक्मयम् (आ) वाङ्मयम् (इ) वाग्मयम् (ई) वाक्मयः
पाठ्यक्रमाधारः: स्वरसन्धौ वृद्धि, यण्, अयादि, पूर्वरूप; व्यञ्जनसन्धौ परसवर्ण, तुगागम तथा वर्गीयप्रथमवर्णस्य तृतीयवर्णे परिवर्तनम्; विसर्गसन्धौ उत्व, रुत्व, विसर्गलोप आदि निर्धारित हैं।
प्रश्न 6. समासः — 4 अङ्काः
अधोलिखितेषु उचितं विकल्पं चित्वा लिखत। (1 × 4 = 4)
(क) राज्ञः पुत्रः इत्यस्य समस्तपदं किम्? (अ) राजपुत्रः (आ) राजपुत्रम् (इ) राजापुत्रः (ई) राजपुत्रौ
(ख) अशिक्षितः इत्यत्र कः समासः? (अ) द्वन्द्वः (आ) नञ्-तत्पुरुषः (इ) अव्ययीभावः (ई) उपपद-तत्पुरुषः
(ग) माता च पिता च इत्यस्य समस्तपदं किम्? (अ) मातापितरौ (आ) मातापिता (इ) मातृपितृ (ई) मातापितरः
(घ) यथाशक्ति इत्यत्र कः समासः? (अ) द्वन्द्वः (आ) तत्पुरुषः (इ) अव्ययीभावः (ई) कर्मधारयः
पाठ्यक्रमाधारः: तत्पुरुष में विभक्ति, नञ् और उपपद; द्वन्द्व तथा अव्ययीभाव में अनु, उप, सह, निर्, प्रति, यथा निर्धारित हैं।
प्रश्न 7. प्रत्ययाः — 4 अङ्काः
उचितं प्रत्यययुक्तं पदं चित्वा लिखत। (1 × 4 = 4)
(क) पठ् + तव्यत् = (अ) पठितव्यः (आ) पठित: (इ) पठनीयः (ई) पठित्वा
(ख) कृ + अनीयर् = (अ) कर्तव्यः (आ) करणीयम् (इ) कृतवान् (ई) कारकः
(ग) धन + मतुप् = (अ) धनता (आ) धनवान् (इ) धनीत्वम् (ई) धनिकः
(घ) मित्र + तल् = (अ) मित्रता (आ) मित्रवान् (इ) मैत्री (ई) मित्रत्वः
पाठ्यक्रमानुसार: कृत्प्रत्यय — तव्यत्, अनीयर्; तद्धित — मतुप्, ठक्, त्व, तल्; स्त्रीप्रत्यय — टाप्, ङीप्।
प्रश्न 8. वाच्यपरिवर्तनम् — 3 अङ्काः
अधोलिखितेषु वाक्येषु कर्तृवाच्यं कर्मवाच्ये परिवर्तयत। (1 × 3 = 3)
(क) बालकः पुस्तकं पठति। → बालकेन पुस्तकम्_----
(ख) सीता पत्रं लिखति। → _------_पत्रं लिख्यते
(ग) छात्राः संस्कृतं पठन्ति। → _छात्रै: ------पठ्यते
प्रश्न 9. समयः — 3 अङ्काः
अङ्कानां स्थाने संस्कृतशब्दैः समयं लिखत। (1 × 3 = 3)
(क) 5:30 — __________________________
(ख) 6:45 — __________________________
(ग) 8:15 — __________________________
पाठ्यक्रमानुसार: सामान्य, सपाद, सार्ध तथा पादोन के प्रयोग से समय-लेखन निर्धारित है।
प्रश्न 10. अव्ययानि — 4 अङ्काः
मञ्जूषायाः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत। (1 × 4 = 4)
मञ्जूषा — अधुना, सहसा, शनैः, वृथा, एव, इव
(क) बालकः गुरुणा ________ विद्यालयं गच्छति।
(ख) सिंहः ________ वनात् निर्गतः।
(ग) कृषकः ________ कार्यं करोति।
(घ) ________ वर्षाकालः अस्ति।
निर्धारित अव्ययों में इव, एव, नूनम्, इतस्ततः, विना, तु, सहसा, वृथा, शनैः, इति, मा, अधुना, यावत्-तावत्, बहिः, कदापि, च, अपि, पुरा, अत्र-तत्र, यथा-तथा, कदा, अद्य, श्वः, परश्वः, किमर्थम्, कुत्र, यदा-तर्हि, अतः आदि सम्मिलित हैं।
प्रश्न 11. अशुद्धि-संशोधनम् — 3 अङ्काः
अधोलिखितेषु वाक्येषु अशुद्धिपदं संशोध्य शुद्धं वाक्यं लिखत। (1 × 3 = 3)
(क) बालकाः विद्यालयं गच्छति। → __________________________________
(ख) सीता सुन्दरः अस्ति। → __________________________________
(ग) अहं संस्कृतं पठसि। → __________________________________
पाठ्यक्रमानुसार अशुद्धि-संशोधनम् में वचन, लिङ्ग, पुरुष तथा लकार के आधार पर संशोधन निर्धारित है।
📊 अङ्क-विभाजनम् प्रश्न विषयः अङ्काः 5 सन्धिः 4 6 समासः 4 7 प्रत्ययाः 4 8 वाच्यपरिवर्तनम् 3 9 समयः 3 10 अव्ययानि 4 11 अशुद्धि-संशोधनम् 3 कुलम् अनुप्रयुक्तव्याकरणम् 25