Skip to content
All articles
· 1 min read

संस्कृति: संस्कार: संस्कृतम् च

संस्कृते सर्वं ज्ञानम् संस्कृते किं न विद्यते।  अतः वयं स्वसंस्कृतिं पालयेम संस्कारवन्त:भवेम संस्कृतं जानीम:च।

By SanskritLearn

सम् उपसर्ग: कृ धातौ क्तिन् प्रत्ययुक्त: शब्द: संस्कृति:अस्ति। संस्कृति: अस्माकम् आत्मा अस्ति।यस्य देशस्य संस्कृति: यावत् शाश्वत: अस्ति तावत् देशस्य नागरिका: संस्कारवन्त: समृद्धियुक्ता: धैर्यवन्त: सदाचारवन्त: भवन्ति परं यदैव संस्कृते: अधोगति: भवति तावदेव जना: अधोस्थितिं प्राप्तुवन्ति। 'संस्कार:' शब्द: सम् उपसर्गस्य कृ धातो: निष्पन्न: अस्ति यस्य अर्थ: सम्यक् प्रकारेण कृत:। संस्कार:जन्म-यावत् आरंभ: भवति। प्रतिदिनं वयं जीवने संस्कारस्य भावं ग्रहणं कुर्म: पश्याम:च। संस्कारेण एव जना: जीवनपथे कर्तव्यपथे च उन्नतिं लभन्ते। 'संस्कृतम् ' सम् उपसर्गस्य कृ धातौ क्त प्रत्ययुक्त: शब्द: अस्ति। अस्य अर्थ: अस्ति संस्कारयुक्त:। संस्कृतम् भारतस्य आत्मा अस्ति।संस्कृतेन वयं स्वसंस्कृतिं ज्ञातुं समर्था: भवाम:। भारतस्य सर्वे प्राचीनग्रन्था: वेदा: उपनिषद: पुराणादि धार्मिकग्रन्था: इत्यादय: संस्कृते एवं सन्ति। कथ्यते - संस्कृते पदलालित्यम् संस्कृते अर्थगौरवम् संस्कृते सर्वं ज्ञानम् संस्कृते किं न विद्यते।  अतः वयं स्वसंस्कृतिं पालयेम संस्कारवन्त:भवेम संस्कृतं जानीम:च।