Skip to content
All lessons

Script — Devanagari

कक्षा 9 संस्कृत तृतीयः पाठः — आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः प्रश्नोत्तर

कक्षा 9 संस्कृत शारदा के तृतीय पाठ ‘आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः’ के अभ्यास 1 से 8 तक प्रश्नोत्तर, क्तवतु-प्रत्यय, विभक्ति, प्रश्ननिर्माण, घटनाक्रम एवं समास सहित शुद्ध संस्कृत सामग्री।

4 min read

कक्षा 9 संस्कृत — तृतीयः पाठः आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः अभ्यासः — प्रश्न 1 से 8 तक प्रश्नोत्तर विषय: संस्कृत कक्षा: 9 पाठ: तृतीयः — आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः

  1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत—

(क) मातामही कस्य कथां श्रावितवती? उत्तरम्— मातामही नामदेवमहाराजस्य कथां श्रावितवती। (ख) नामदेवस्य गुरुः नामदेवं किम् अध्यापितवान्? उत्तरम्— नामदेवस्य गुरुः विसोबा नामदेवम् अध्यापितवान् यत्— “ईश्वरः न केवलं मन्दिरे भवति, अपि तु सर्वेषु भूतेषु तस्य निवासो भवति। अतः तस्य सर्वात्मकस्य ईश्वरस्य पूजनं कुरु।” (ग) नामदेवः कया भावनया धावनं कृतवान्? उत्तरम्— नामदेवः करुणाभावनया धावनं कृतवान्। (घ) बालकयोः मुखे किमर्थं म्लाने सञ्जाते? उत्तरम्— अपराधभावनया बालकयोः मुखे म्लाने सञ्जाते। (ङ) कपिलः माधवी च कं सङ्कल्पं कृतवन्तौ? उत्तरम्— कपिलः माधवी च सङ्कल्पं कृतवन्तौ यत् कस्यापि पीडा न भवेत् तथा च कस्यापि पीडां निवारयितुं प्रयतामहे। (च) ‘तं दृष्ट्वा पाषाणखण्डं स्वीकृत्य मारयितुं धावितवन्तौ’ इति वाक्ये ‘तम्’ इति सर्वनामशब्दः कस्य कृते प्रयुक्तः? उत्तरम्— ‘तम्’ इति सर्वनामशब्दः शुनकस्य कृते प्रयुक्तः। (छ) कपिलः माधवी च कुत्र गतवन्तौ? उत्तरम्— कपिलः माधवी च मातुलगृहं गतवन्तौ। (ज) ‘मातामही तं प्रसङ्गं दृष्टवती, तौ आहूतवती च।’ इति वाक्ये ‘तौ’ इति शब्दः कस्यां विभक्तौ अस्ति? उत्तरम्— ‘तौ’ इति शब्दः द्वितीया-विभक्तौ अस्ति।

  1. अधोलिखितानि वाक्यानि भूतकालेन परिवर्त्य पुनः लिखत—

यथा— नामदेवः स्थालिकां स्वीकृत्य मन्दिरं गच्छति। उत्तरम्— नामदेवः स्थालिकां स्वीकृत्य मन्दिरं गतवान्। (क) नैवेद्यं विग्रहस्य पुरतः स्थापयति। उत्तरम्— नैवेद्यं विग्रहस्य पुरतः स्थापितवान्। (ख) नेत्रे निमील्य प्रार्थनायाः आरम्भं करोति। उत्तरम्— नेत्रे निमील्य प्रार्थनायाः आरम्भं कृतवान्। (ग) गुरुः विसोबा तम् अध्यापयति। उत्तरम्— गुरुः विसोबा तम् अध्यापितवान्। (घ) अहं शृणोमि। उत्तरम्— अहं श्रुतवान्। (स्त्रीलिङ्गे — श्रुतवती) (ङ) सत्पुरुषाः स्वकर्तृत्वेन जन्म सार्थकं कुर्वन्ति। उत्तरम्— सत्पुरुषाः स्वकर्तृत्वेन जन्म सार्थकं कृतवन्तः। (च) नामदेवः शुनकस्य पृष्ठे अनुधावति। उत्तरम्— नामदेवः शुनकस्य पृष्ठे अनुधावितवान्।

  1. अधोलिखितानि कथनानि कः / का / कं / कां च प्रति कथयति इति लिखत—

कथनम् वक्ता श्रोता (क) कथां श्रोतुम् इच्छतः वा? मातामही कपिलं माधवीं च प्रति (ख) अहं श्रुतवती यत् तस्य कीर्तने स्वयं देवः पाण्डुरङ्गः नृत्यं कृतवान् इति। माधवी मातामहीं प्रति (ग) किं देवेन सह अपि मित्रता सम्भवति? कपिलः मातामहीं प्रति (घ) अतः तस्य सर्वात्मकस्य ईश्वरस्य पूजनं कुरु। गुरुः विसोबा नामदेवं प्रति (ङ) नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कुरु। नामदेवः देवं प्रति (च) धिक् शुनकम्। कपिलः मातामहीं प्रति (छ) नामदेवस्य कियत् दुःखं जातं स्यात् खलु? माधवी मातामहीं प्रति (ज) किं घृतपात्रम् आधृत्य? कपिलः माधवी च मातामहीं प्रति (झ) अद्य अहं ज्ञातवान् यत् सर्वेषु जीवेषु ईश्वरः निवसति इति। कपिलः मातामहीं प्रति (ञ) उत्तीर्णः भवान् परीक्षाम्। पाण्डुरङ्गः नामदेवं प्रति

  1. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत—

यथा— पाण्डुरङ्गः नामदेवस्य मित्रम् आसीत्। प्रश्नः— पाण्डुरङ्गः कस्य मित्रम् आसीत्? (क) देवः नामदेवं परितः भवति स्म। प्रश्नः— देवः कं परितः भवति स्म? (ख) ईश्वरः सर्वेषु भूतेषु निवसति। प्रश्नः— ईश्वरः केषु निवसति? (ग) शुनकः आगत्य मुखे रोटिकां धृत्वा धावितवान्। प्रश्नः— शुनकः आगत्य मुखे कां धृत्वा धावितवान्? (घ) शुनकस्य स्थाने पाण्डुरङ्गः आविर्भूतवान्। प्रश्नः— शुनकस्य स्थाने कः आविर्भूतवान्? (ङ) आत्मवत् सर्वभूतेषु यः पश्यति सः पण्डितः। प्रश्नः— आत्मवत् सर्वभूतेषु यः पश्यति सः कः?

  1. घटनाक्रमानुसारं लिखत—

दिए गए वाक्यों का उचित क्रम इस प्रकार है— (1) नामदेवः मन्दिरं गतवान्। (2) नामदेवः नैवेद्यस्थालिकां विग्रहस्य पुरतः स्थापितवान्। (3) नामदेवः मन्त्रम् उच्चार्य श्रद्धया प्रणम्य नेत्रे उद्घाटितवान्। (4) शुनकः शुष्करोटिकाम् अपहृत्य पलायितवान्। (5) नामदेवः घृतपात्रम् आधृत्य अनुधावितवान्। (6) शुनकस्य स्थाने पाण्डुरङ्गः आविर्भूतवान्।

  1. कोष्ठकेषु दत्तानां पदानाम् उचितां विभक्तिं योजयित्वा अनुच्छेदं पूरयत—

आगच्छन्तु, पायसं कुर्मः आगच्छन्तु, पायसं कुर्मः। क्षीरेण सह तण्डुलाः पक्वाः। शर्करां विना कथं शक्यते। शीघ्रमेव आपणं प्रति गत्वा शर्कराम् आनयतु। आपणं निकषा वाहनानि तिष्ठन्ति। शर्करा महानसे स्थापिता। शर्करां परितः पिपीलिकाः आगताः। पिपीलिकाः अपनीय पायसे शर्करा योजिता। मधुरं विना पायसं रुचिकरं न भवति। अधुना पायसं परितः बालक-बालिकावृन्दं तिष्ठति। धिक् अन्यान् मधुरपदार्थान् इति एकः वदति, तेन विना जीवनम् अपूर्णम् इति अपरः। पायसेन सह एव भोजनं सरसम् इति अन्यः। तेषां वचनानि श्रुत्वा पायसं यच्छन्त्याः अम्बायाः मुखे मन्दहासः विलसति।

  1. अनुच्छेदे स्थूलाक्षरेण दत्तानां क्रियापदानां स्थाने उचितं क्तवतु-प्रत्ययान्तरूपं योजयित्वा पुनः लिखत—

उत्तरम्— कञ्चित् ग्रामं निकषा एका नदी असितवती। नदी सर्वदा स्वच्छजलम् दत्तवती। जनाः तस्याः जलं पीत्वा सुखेन जीवितवन्तः। एकः कृषकः तेन जलेन सर्वदा कृषिम् कृतवान्। कालान्तरम् अन्ये कृषकाः अपि तेन जलेन क्षेत्रसेचनम् कृतवन्तः। महिलाः पर्वसमये नदीम् पूजितवत्यः। एकवारं कश्चित् परिवारः नद्यां मालिन्यानि क्षिप्तवान्। क्रमशः अन्ये अपि क्षिप्तवन्तः। तेन नदी मलिना अभवत्, मीनाः मृतवन्तः। स्त्रियः रोगैः पीडिताः भूतवत्यः। तदा एका शिक्षिता बालिका जलस्य महत्त्वं सर्वान् उक्तवती। सा नदीतीरम् आगत्य स्वयं वृक्षम् रोपितवती। महिलाः अपि ततः प्रेरणां प्राप्य तस्याः साहाय्यम् कृतवत्यः। सर्वे ग्रामवासिनः मिलित्वा नदीम् शोधितवन्तः। पुनः नदी स्वच्छा जाता निर्मलं जलं च दत्तवती। ततः आरभ्य वर्षे एकवारं जनाः नदीम् पूजितवन्तः, वृक्षरोपणं च कृतवन्तः।

  1. एतेषां समस्तपदानि पाठात् चित्वा लिखत—

विग्रह समस्तपद (क) घृतस्य पात्रम् -घृतपात्रम् (ख) पाषाणस्य खण्डः -पाषाणखण्डम् (ग) प्रियः सुहृद् -प्रियसुहृद (घ) उदरे वेदना- उदरवेदना (ङ) स्वीयः व्यवहारः- स्वव्यवहारः (च) जीवनस्य मूल्यानि- जीवनमूल्यानि (छ) मातुलस्य गृहम्- मातुलगृहम् (ज) नरेषु रत्नानि इव तेषाम्- नररत्नानाम् (झ) स्वीयं कर्तृत्वम् -स्वकर्तृत्वम् (ञ) अपराधस्य भावना -अपराधभावनया (ट) गुरोः उपदेशः- गुरूपदेशम् (ठ) दिने दिने- प्रतिदिनम् (ड) राजा ऋषिः इव तेषाम्- राजर्षीणाम् पाठ का मुख्य संदेश “आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः।” अर्थात्— जो मनुष्य सभी प्राणियों को अपने समान देखता है, वही सच्चा पण्डित है। पाठ में करुणा, अहिंसा तथा सभी जीवों के प्रति दया का संदेश दिया गया है।