Skip to content
All lessons

Script — Devanagari

कक्षा 9 संस्कृत — पाठ 6 मनःपूतं समाचरेत् — अभ्यासः प्रश्नोत्तर सहित

कक्षा 9 संस्कृत पाठ 6 ‘मनःपूतं समाचरेत्’ के प्रश्न 1 से 9 तक प्रश्नोत्तर, रिक्तस्थान, प्रश्ननिर्माण, अन्वय, सन्धिविच्छेद एवं समस्तपद अभ्यास सहित।

3 min read

Class: 9 Subject: Sanskrit पाठ: मनःपूतं समाचरेत् अध्याय: 6 अभ्यास: अभ्यासाद् जायते सिद्धि

प्रश्न 1. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखत— (क) लोकः कस्य आचरणम् अनुकरोति?

उत्तरम्— लोकः श्रेष्ठजनस्य आचरणम् अनुकरोति।

(ख) कीदृशी वाणी वक्तव्या?

उत्तरम्— सत्यपूतां वाणीं वक्तव्या।

(ग) लक्ष्मीः कम् उपैति?

उत्तरम्— लक्ष्मीः उद्योगिनं पुरुषसिंहम् उपैति।

(घ) उत्तमजनाः कार्यं प्रारभ्य किं न कुर्वन्ति?

उत्तरम्— उत्तमजनाः पुनः पुनः विघ्नैः प्रतिहन्यमानाः अपि कार्यं न परित्यजन्ति।

(ङ) धर्मस्य लक्षणानि कानि?

उत्तरम्— धृतिः, क्षमा, दमः, अस्तेयम्, शौचम्, इन्द्रियनिग्रहः, धीः, विद्या, सत्यम्, अक्रोधः इति धर्मस्य दश लक्षणानि सन्ति।

(च) सकलाः कलाः कस्मात् सिध्यन्ति?

उत्तरम्— सकलाः कलाः अभ्यासात् सिध्यन्ति।

(छ) सम्पदः कं वृणते?

उत्तरम्— सम्पदः विमृश्यकारिणं वृणते।

प्रश्न 2. अधोलिखितेषु श्लोकांशेषु रिक्तस्थानानि पूरयत— (क) __________ परमापदां पदम्।

उत्तरम्— सहसा विदधीत न क्रियाम् अविवेकः।

(ख) सन्तः __________ अन्यतरद् भजन्ते।

उत्तरम्— परीक्ष्य।

(ग) दैवं निहत्य कुरु __________ आत्मशक्त्या।

उत्तरम्— पौरुषम्।

(घ) स यत् __________ कुरुते।

उत्तरम्— प्रमाणम्।

(ङ) धीर्विद्या सत्यमक्रोधो __________ धर्मलक्षणम्।

उत्तरम्— दशकं।

प्रश्न 3. रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत— (क) नीचैः विघ्नभयेन कार्यं न प्रारभ्यते।

उत्तरम्— कैः विघ्नभयेन कार्यं न प्रारभ्यते?

(ख) सकलाः कलाः अभ्यासात् सिध्यन्ति।

उत्तरम्— सकलाः कलाः कस्मात् सिध्यन्ति?

(ग) वस्त्रपूतं जलं पिबेत्।

उत्तरम्— कीदृशं जलं पिबेत्?

(घ) लक्ष्मीः पुरुषसिंहम् उपैति।

उत्तरम्— लक्ष्मीः कम् उपैति?

(ङ) सन्तः परीक्ष्य अन्यतरद् भजन्ते।

उत्तरम्— के परीक्ष्य अन्यतरद् भजन्ते?

(च) क्रियां सहसा न विदधीत।

उत्तरम्— क्रियां कथं न विदधीत?

प्रश्न 4. अधोलिखितं श्लोकं पठित्वा प्रश्नानाम् उत्तराणि लिखत—

श्लोकः—

दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत्। सत्यपूतां वदेत् वाचं मनः पूतं समाचरेत्॥

(क) अस्मिन् श्लोके प्रथमं क्रियापदं किम्?

उत्तरम्— अस्मिन् श्लोके प्रथमं क्रियापदं न्यसेत् अस्ति।

(ख) कं न्यसेत्?

उत्तरम्— पादं न्यसेत्।

(ग) कीदृशं पादं न्यसेत्?

उत्तरम्— दृष्टिपूतं पादं न्यसेत्।

(घ) द्वितीयं किं क्रियापदम् अस्ति?

उत्तरम्— द्वितीयं क्रियापदं पिबेत् अस्ति।

(ङ) किं पिबेत्?

उत्तरम्— जलं पिबेत्।

(च) कीदृशं जलं पिबेत्?

उत्तरम्— वस्त्रपूतं जलं पिबेत्।

(छ) तृतीयं किं क्रियापदम् अस्ति?

उत्तरम्— तृतीयं क्रियापदं वदेत् अस्ति।

(ज) कां वदेत्?

उत्तरम्— वाचं वदेत्।

(झ) कीदृशीं वाणीं वदेत्?

उत्तरम्— सत्यपूतां वाणीं वदेत्।

(ञ) चतुर्थं किं क्रियापदम् अस्ति?

उत्तरम्— चतुर्थं क्रियापदं समाचरेत् अस्ति।

(ट) कथं समाचरेत्?

उत्तरम्— मनःपूतं समाचरेत्।

प्रश्न 5. मञ्जूषातः पदानि चित्वा भावार्थेषु रिक्तस्थानानि पूरयत—

मञ्जूषा: बुद्धिः, लक्ष्यं, पुरुषस्य, अभिप्रायं, धीराः, नूतनम्

(क)

लक्ष्मीः प्रयत्नशीलस्य पराक्रमिणः __________ समीपं स्वयम् आगच्छति। कापुरुषाः तु ‘विधिः एव बलीयान्’ इति वदन्ति। ये पौरुषेण परिस्थितिम् अतिक्रम्य कार्याणि साधयन्ति ते एव __________। प्रयत्नं कृत्वा अपि यदि __________ न प्राप्तं तर्हि तत्र दोषः नास्ति खलु।

उत्तरम्— (1) पुरुषस्य (2) धीराः (3) लक्ष्यं

(ख)

पुरातनम् अस्ति इति कारणेन किमपि वस्तु तत्त्वं व्यक्तित्वं वा समीचीनं भवेदेव इति नियमः नास्ति। तथैव __________ अस्ति इति कारणेन दोषरहितं भवेत् इत्यपि नियमः नास्ति। येषां __________ पक्वा अस्ति ते परीक्षण-निरीक्षणानन्तरम् एव __________ उत्तमं स्वीकुर्वन्ति। किन्तु अज्ञानाः अन्येषाम् श्रुत्वा तदनुसारेण प्रवर्तन्ते।

उत्तरम्— (1) नूतनम् (2) बुद्धिः (3) अभिप्रायं

प्रश्न 6. श्लोकानाम् अन्वयेषु रिक्तस्थानानि पूरयत— (क)

सर्वाः __________ अभ्यासेन (सिध्यन्ति)। __________ कलाः अभ्यासात् (सिध्यन्ति)। ध्यानमौनादि (अपि) __________ (सिध्यति)। अभ्यासस्य किम् __________ (अस्ति)?

उत्तरम्— (1) क्रियाः (2) सकलाः (3) अभ्यासात् (4) दुष्करम्

(ख)

श्रेष्ठः यत् यत् __________ इतरः जनः तत् तत् एव (आचरति)। सः यत् __________ कुरुते, लोकः तत् __________।

उत्तरम्— (1) आचरति (2) प्रमाणम् (3) अनुवर्तते

प्रश्न 7. यथोचितं मेलनं कुरुत— श्लोकांशः स्रोतोग्रन्थः (क) पुराणमित्येव न साधु सर्वम् मालविकाग्निमित्रम् (ख) प्रारभ्य चोत्तमजनाः न परित्यजन्ति नीतिशतकम् (ग) यद्यदाचरति श्रेष्ठः श्रीमद्भगवद्गीता (घ) धृतिः क्षमा दमोऽस्तेयम् मनुस्मृतिः (ङ) उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः पञ्चतन्त्रम् प्रश्न 8. रेखाङ्कितेषु पदेषु सन्धिविच्छेदं कुरुत— (क) धृतिः क्षमा दमोऽस्तेयम्।

उत्तरम्— दमः + अस्तेयम्।

(ख) पुराणमित्येव न साधु सर्वम्।

उत्तरम्— पुराणम् + इति + एव।

(ग) विघ्नैः पुनरपि प्रतिहन्यमानाः।

उत्तरम्— पुनः + अपि।

(घ) प्रारभ्य चोत्तमजनाः न परित्यजन्ति।

उत्तरम्— च + उत्तमजनाः।

(ङ) विघ्नविहता विरमन्ति मध्याः।

उत्तरम्— विघ्न विहताः+विरमन्ति

(च) लोकस्तदनुवर्तते।

उत्तरम्— लोकः + तत् + अनुवर्तते।

(छ) सन्तः परीक्ष्यान्यतरद्भजन्ते।

उत्तरम्— परीक्ष्य + अन्यतरत् + भजन्ते।

प्रश्न 9. अत्र कतिचन विग्रहवाक्यानि दत्तानि सन्ति। तेषां समस्तपदानि पाठात् चित्वा लिखत— विग्रहवाक्यानि समस्तपदानि यथा— मनसा पूतं समाचरेत् मनःपूतम् (क) विघ्नैः विहताः (कार्यात्) विरमन्ति। विघ्नविहताः (ख) वस्त्रेण पूतं जलं पिबेत्। वस्त्रपूतम् (ग) पुरुषः सिंहः इव तम् उपैति लक्ष्मीः। पुरुषसिंहम् (घ) उत्तमाः जनाः न परित्यजन्ति। उत्तमजनाः (ङ) न विवेकः परमापदां पदम्। अविवेकः पाठ-सन्देशः

“मनःपूतं समाचरेत्” — मन को पवित्र रखकर ही कार्य करना चाहिए। विचारपूर्वक किया गया कार्य सफलता का मार्ग प्रशस्त करता है। अभ्यास, धैर्य, विवेक और आत्मशक्ति जीवन में सफलता के प्रमुख साधन हैं। पाठ में संकलित सुभाषितों का उद्देश्य केवल पठन नहीं, बल्कि जीवन में उनका आचरण करना है।