Skip to content
All lessons

Script — Devanagari

प्रतिदिन संस्कृत सम्भाषणम् – भागः ८ : चिकित्सालये

प्रतिदिन दिन संस्कृत सम्भाषणम् – भाग 8। चिकित्सालय में होने वाला सरल संस्कृत संवाद, हिन्दी अर्थ, शब्दार्थ, दैनिक प्रयोग के वाक्य, अभ्यास, सुभाषित एवं प्रेरणावाक्य सहित। कक्षा 9–10 के विद्यार्थियों तथा संस्कृत सीखने वाले सभी पाठकों के लिए उपयोगी।

1 min read

प्रतिदिन संस्कृत सम्भाषणम् – भागः ८ चिकित्सालये (चिकित्सालय में) संवादः

रुग्ण : नमस्ते, वैद्यवर!

वैद्यः : नमस्ते। भवतः किं कष्टम् अस्ति?

रुग्ण : मम ज्वरः अस्ति तथा शिरः अपि पीड्यते।

वैद्यः : ज्वरः कद आरब्धः?

रुग्ण : ह्यः सायंकालात् आरब्धः।

वैद्यः : भवतः तापमानं परीक्षामि। कृपया उपविशतु।

रुग्ण : आम्, वैद्यवर।

वैद्यः : औषधं समये स्वीकरोतु, पर्याप्तं जलं पिबतु तथा विश्रामं करोतु।

रुग्ण: अवश्यम्। भवतः उपदेशं पालयिष्यामि।

वैद्यः : शीघ्रं स्वास्थ्यलाभः भवतु।

हिन्दी अर्थ

रोगी: नमस्ते, डॉक्टर साहब!

डॉक्टर: नमस्ते। आपको क्या कष्ट है?

रोगी: मुझे ज्वर है तथा सिर में भी दर्द है।

डॉक्टर: ज्वर कब से है?

रोगी: कल सायंकाल से है।

डॉक्टर: मैं आपका तापमान जाँचता हूँ। कृपया बैठिए।

रोगी: जी।

डॉक्टर: समय पर दवा लीजिए, पर्याप्त पानी पीजिए तथा विश्राम कीजिए।

रोगी: अवश्य। मैं आपके निर्देशों का पालन करूँगा।

डॉक्टर: आप शीघ्र स्वस्थ हों।

नवीनाः शब्दाः संस्कृतम् हिन्दी चिकित्सालयः अस्पताल वैद्यः चिकित्सक / डॉक्टर रुग्ण: रोगी ज्वरः बुखार शिरः सिर पीडा दर्द औषधम् दवा विश्रामः आराम स्वास्थ्यलाभः स्वास्थ्य प्राप्ति तापमानम् तापमान दैनिक-प्रयोग-वाक्यानि भवतः किं कष्टम् अस्ति? मम ज्वरः अस्ति। शिरः पीड्यते। कृपया उपविशतु। औषधं समये स्वीकरोतु। पर्याप्तं जलं पिबतु। विश्रामं करोतु। शीघ्रं स्वास्थ्यलाभः भवतु। अभ्यासः १. संस्कृतेन उत्तरत। रोगिणः किं कष्टम् अस्ति? वैद्यः किं परीक्षते? वैद्यः रुग्णं किं उपदिशति? २. रिक्तस्थानानि पूरयत। मम ________ अस्ति। औषधं ________ स्वीकरोतु। पर्याप्तं ________ पिबतु। आज का संस्कृत शब्द

औषधम् — दवा

उदाहरणम्: रुग्ण: समये औषधं स्वीकरोति।

आज का सुभाषितम्

शरीरमाद्यं खलु धर्मसाधनम्।

भावार्थः: स्वस्थ शरीर ही सभी श्रेष्ठ कार्यों और कर्तव्यों के पालन का प्रथम साधन है।

आज का प्रेरणावाक्यम्

स्वच्छता, संतुलिताहारः, नियमितव्यायामः, पर्याप्तविश्रामश्च उत्तमस्वास्थ्यस्य आधाराः।