Skip to content
All lessons

Script — Devanagari

प्रतिदिन संस्कृत सम्भाषण — भागः २७

विद्यार्थिनां कृते पुस्तकालयविषयकः सरलः संस्कृतसम्भाषणः। संस्कृतभाषायाः दैनिकप्रयोगाय उपयोगी संवादः।

1 min read

प्रतिदिन संस्कृत सम्भाषण — भागः २७ विषयः — पुस्तकालयः

रमेशः — मित्र! कुत्र गच्छसि?

सुरेशः — अहं पुस्तकालयं गच्छामि।

रमेशः — तत्र किं करोषि?

सुरेशः — अहं तत्र पुस्तकानि पठामि।

रमेशः — किं त्वं प्रतिदिनं पुस्तकालयं गच्छसि?

सुरेशः — आम्, प्रतिदिनं किञ्चित्कालं पुस्तकालये समयं यापयामि।

रमेशः — तत्र केवलं पुस्तकपठनमेव भवति किम्?

सुरेशः — न, तत्र समाचारपत्राणाम् अपि पठनं भवति।

रमेशः — पुस्तकपठनस्य कः लाभः?

सुरेशः — पुस्तकपठनेन ज्ञानवृद्धिः भवति, चिन्तनशक्तिः अपि वर्धते।

रमेशः — उत्तमम्। अहम् अपि अद्य त्वया सह पुस्तकालयं गमिष्यामि।

सुरेशः — स्वागतम्। आगच्छ।