Skip to content
All lessons

Script — Devanagari

संस्कृत स्त्रीलिङ्ग एवं नपुंसकलिङ्ग शब्दरूपाणि | लता, नदी, मति, फल, वारि,धेनु,मातृ,जगत,

संस्कृत के प्रमुख स्त्रीलिङ्ग एवं नपुंसकलिङ्ग शब्दरूपाणि सरल एवं व्यवस्थित रूप में पढ़ें। लता, मति, नदी, मातृ, धेनु, फल, वारि, जगत्, मनस्, चक्षुस् आदि शब्दों के सभी विभक्ति-रूप यहाँ उपलब्ध हैं। कक्षा 9 एवं 10 के विद्यार्थियों के लिए अत्यन्त उपयोगी।

2 min read

स्त्रीलिङ्ग एवं नपुंसकलिङ्ग शब्दरूपाणि

संस्कृतव्याकरणे स्त्रीलिङ्ग तथा नपुंसकलिङ्ग शब्दों का अध्ययन अत्यन्त आवश्यक है। यहाँ प्रमुख शब्दरूप सरल रूप में दिए गए हैं।

स्त्रीलिङ्ग शब्दाः

१. लता शब्दः

प्रथमा — लता, लते, लताः द्वितीया — लताम्, लते, लताः तृतीया — लतया, लताभ्याम्, लताभिः चतुर्थी — लतायै, लताभ्याम्, लताभ्यः पञ्चमी — लतायाः, लताभ्याम्, लताभ्यः षष्ठी — लतायाः, लतयोः, लतानाम् सप्तमी — लतायाम्, लतयोः, लतासु

---

२. मति शब्दः

प्रथमा — मतिः, मती, मतयः द्वितीया — मतिम्, मती, मतीः तृतीया — मत्या, मतिभ्याम्, मतिभिः चतुर्थी — मत्यै, मतिभ्याम्, मतिभ्यः पञ्चमी — मत्याः, मतिभ्याम्, मतिभ्यः षष्ठी — मत्याः, मत्योः, मतीनाम् सप्तमी — मत्याम्, मत्योः, मतिषु

---

३. नदी शब्दः

प्रथमा — नदी, नद्यौ, नद्यः द्वितीया — नदीम्, नद्यौ, नदीः तृतीया — नद्या, नदीभ्याम्, नदीभिः चतुर्थी — नद्यै, नदीभ्याम्, नदीभ्यः पञ्चमी — नद्याः, नदीभ्याम्, नदीभ्यः षष्ठी — नद्याः, नद्योः, नदीनाम् सप्तमी — नद्याम्, नद्योः, नदीषु

---

४. मातृ शब्दः

प्रथमा — माता, मातरौ, मातरः द्वितीया — मातरम्, मातरौ, मातॄ: तृतीया — मात्रा, मातृभ्याम्, मातृभिः चतुर्थी — मात्रे, मातृभ्याम्, मातृभ्यः पञ्चमी — मातुः, मातृभ्याम्, मातृभ्यः षष्ठी — मातुः, मात्रोः, मातॄणाम् सप्तमी — मातरि, मात्रोः, मातृषु

---

५. धेनु शब्दः

प्रथमा — धेनुः, धेनू, धेनवः द्वितीया — धेनुम्, धेनू, धेनूः तृतीया — धेन्वा, धेनुभ्याम्, धेनुभिः चतुर्थी — धेन्वै, धेनुभ्याम्, धेनुभ्यः पञ्चमी — धेन्वाः, धेनुभ्याम्, धेनुभ्यः षष्ठी — धेन्वाः, धेन्वोः, धेनूनाम् सप्तमी — धेन्वाम्, धेन्वोः, धेनुषु

---

नपुंसकलिङ्ग शब्दाः

१. फल शब्दः

प्रथमा — फलम्, फले, फलानि द्वितीया — फलम्, फले, फलानि तृतीया — फलेन, फलाभ्याम्, फलैः चतुर्थी — फलाय, फलाभ्याम्, फलेभ्यः पञ्चमी — फलात्, फलाभ्याम्, फलेभ्यः षष्ठी — फलस्य, फलयोः, फलानाम् सप्तमी — फले, फलयोः, फलेषु

---

२. वारि शब्दः

प्रथमा — वारि, वारिणी, वारिणि द्वितीया — वारि, वारिणी, वारिणि तृतीया — वारिणा, वारिभ्याम्, वारिभिः चतुर्थी — वारिणे, वारिभ्याम्, वारिभ्यः पञ्चमी — वारिणः, वारिभ्याम्, वारिभ्यः षष्ठी — वारिणः, वारिणोः, वारिणाम् सप्तमी — वारिणि, वारिणोः, वारिषु

---

३. जगत् शब्दः

प्रथमा — जगत्, जगती, जगन्ति द्वितीया — जगत्, जगती, जगन्ति तृतीया — जगता, जगद्भ्याम्, जगद्भिः चतुर्थी — जगते, जगद्भ्याम्, जगद्भ्यः पञ्चमी — जगतः, जगद्भ्याम्, जगद्भ्यः षष्ठी — जगतः, जगतोः, जगताम् सप्तमी — जगति, जगतोः, जगत्सु

इति प्रमुखाः स्त्रीलिङ्ग-नपुंसकलिङ्ग शब्दरूपाणि।