Skip to content
All lessons

Script — Devanagari

कक्षा 9 संस्कृत — शारदा षष्ठः पाठः — मनःपूतं समाचरेत् अभ्यासः — प्रश्न 1 से 9 तक प्रश्नोत्तर

षष्ठः पाठः — मनःपूतं समाचरेत् में विभिन्न ग्रन्थों से संकलित नीति-सुभाषितों के माध्यम से पवित्र मन, शुद्ध वाणी, सदाचार, धर्म के दस लक्षण, अभ्यास, पुरुषार्थ, धैर्य तथा विवेकपूर्ण आचरण की शिक्षा दी गई है। प्रस्तुत सामग्री में पाठ के अभ्यास 1 से 9 तक के प्रश्न एवं शुद्ध उत्तर दिए गए हैं।

3 min read

विषय: संस्कृत कक्षा: 9 पाठ: षष्ठः — मनःपूतं समाचरेत्

  1. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखत—

(क) लोकः कस्य आचरणम् अनुकरोति?

उत्तरम्— लोकः श्रेष्ठस्य आचरणम् अनुकरोति।

(ख) कीदृशी वाणी वक्तव्या?

उत्तरम्— सत्यपूता वाणी वक्तव्या।

(ग) लक्ष्मीः कम् उपैति?

उत्तरम्— लक्ष्मीः उद्योगिनं पुरुषसिंहम् उपैति।

(घ) उत्तमजनाः कार्यं प्रारभ्य किं न कुर्वन्ति?

उत्तरम्— उत्तमजनाः कार्यं प्रारभ्य विघ्नैः प्रतिहन्यमानाः अपि न परित्यजन्ति।

(ङ) धर्मस्य लक्षणानि कानि?

उत्तरम्— धृतिः, क्षमा, दमः, अस्तेयम्, शौचम्, इन्द्रियनिग्रहः, धीः, विद्या, सत्यम्, अक्रोधः—इति धर्मस्य दश लक्षणानि सन्ति।

(च) सकलाः कलाः कस्मात् सिध्यन्ति?

उत्तरम्— सकलाः कलाः अभ्यासात् सिध्यन्ति।

(छ) सम्पदः कं वृणते?

उत्तरम्— सम्पदः विमृश्यकारिणं वृणते।

  1. अधोलिखितेषु श्लोकांशेषु रिक्तस्थानानि पूरयत—

(क) __________ परमापदां पदम्।

उत्तरम्— अविवेकः परमापदां पदम्।

(ख) सन्तः __________ अन्यतरद् भजन्ते।

उत्तरम्— सन्तः परीक्ष्य अन्यतरद् भजन्ते।

(ग) दैवं निहत्य कुरु __________ आत्मशक्त्या।

उत्तरम्— दैवं निहत्य कुरु पौरुषम् आत्मशक्त्या।

(घ) स यत् __________ कुरुते।

उत्तरम्— स यत् प्रमाणं कुरुते।

(ङ) धीर्विद्या सत्यमक्रोधो __________ धर्मलक्षणम्।

उत्तरम्— धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम्।

  1. रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत—

(क) नीचैः विघ्नभयेन कार्यं न प्रारभ्यते।

उत्तरम्— कैः विघ्नभयेन कार्यं न प्रारभ्यते?

(ख) सकलाः कलाः अभ्यासात् सिध्यन्ति।

उत्तरम्—सकलाः कलाः कस्मात् सिध्यन्ति?

(ग) वस्त्रपूतं जलं पिबेत्।

उत्तरम्— कीदृशं जलं पिबेत्?

(घ) लक्ष्मीः पुरुषसिंहम् उपैति।

उत्तरम्— लक्ष्मीः कम् उपैति?

(ङ) सन्तः परीक्ष्य अन्यतरद् भजन्ते।

उत्तरम्— के परीक्ष्य अन्यतरद् भजन्ते?

(च) क्रियां सहसा न विदधीत।

उत्तरम्— काम् सहसा न विदधीत?

  1. अधोलिखितं श्लोकं पठित्वा प्रश्नानाम् उत्तराणि लिखत—

श्लोकः—

दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत्। सत्यपूतां वदेत् वाचं मनः पूतं समाचरेत्॥

(क) अस्मिन् श्लोके प्रथमं क्रियापदं किम्?

उत्तरम्— अस्मिन् श्लोके प्रथमं क्रियापदं न्यसेत् अस्ति।

(ख) कं न्यसेत्?

उत्तरम्— पादं न्यसेत्।

(ग) कीदृशं पादं न्यसेत्?

उत्तरम्— दृष्टिपूतं पादं न्यसेत्।

(घ) द्वितीयं किं क्रियापदम् अस्ति?

उत्तरम्— द्वितीयं क्रियापदं पिबेत् अस्ति।

(ङ) किं पिबेत्?

उत्तरम्— जलं पिबेत्।

(च) कीदृशं जलं पिबेत्?

उत्तरम्— वस्त्रपूतं जलं पिबेत्।

(छ) तृतीयं किं क्रियापदम् अस्ति?

उत्तरम्— तृतीयं क्रियापदं वदेत् अस्ति।

(ज) कां वदेत्?

उत्तरम्— वाचं वदेत्।

(झ) कीदृशीं वाणीं वदेत्?

उत्तरम्— सत्यपूतां वाणीं वदेत्।

(ञ) चतुर्थं किं क्रियापदम् अस्ति?

उत्तरम्— चतुर्थं क्रियापदं समाचरेत् अस्ति।

(ट) कथं समाचरेत्?

उत्तरम्— मनःपूतं समाचरेत्।

  1. मञ्जूषातः पदानि चित्वा भावार्थेषु रिक्तस्थानानि पूरयत—

मञ्जूषा — बुद्धिः, लक्ष्यं, पुरुषस्य, अभिप्रायं, धीराः, नूतनम्

(क)

लक्ष्मीः प्रयत्नशीलस्य पराक्रमिणः' पुरुषस्य 'समीपं स्वयम् आगच्छति। कापुरुषाः तु ‘विधिः एव बलीयान्’ इति वदन्ति। ये पौरुषेण परिस्थितिम् अतिक्रम्य कार्याणि साधयन्ति ते एव 'धीराः'। प्रयत्नं कृत्वा अपि यदि 'लक्ष्यं 'न प्राप्तं तर्हि तत्र दोषः नास्ति खलु।

(ख)

पुरातनम् अस्ति इति कारणेन किमपि वस्तु तत्त्वं व्यक्तित्वं वा समीचीनं भवेदेव इति नियमः नास्ति। तथैव 'नूतनम् 'अस्ति इति कारणेन दोषरहितं भवेत् इत्यपि नियमः नास्ति। येषां 'बुद्धिः' पक्वा अस्ति ते परीक्षण-निरीक्षणानन्तरम् एव अभिप्रायं उत्तमं स्वीकुर्वन्ति। किन्तु अज्ञानाः अन्येषाम् 'अभिप्रायं 'श्रुत्वा तदनुसारेण प्रवर्तन्ते।

  1. श्लोकानाम् अन्वयेषु रिक्तस्थानानि पूरयत—

(क)

सर्वाः क्रियाः अभ्यासेन सिध्यन्ति। सकलाः कलाः अभ्यासात् सिध्यन्ति। ध्यानमौनादि अपि अभ्यासात् सिध्यति। अभ्यासस्य दुष्करं किम् अस्ति?

उत्तरम्— (1) क्रियाः (2) सकलाः (3) अभ्यासात् (4) दुष्करम्

(ख)

श्रेष्ठः यत् यत् आचरति इतरः जनः तत् तत् एव आचरति। सः यत् प्रमाणं कुरुते, लोकः तत् अनुवर्तते।

उत्तरम्— (1) आचरति (2) प्रमाणम् (3) अनुवर्तते

  1. यथोचितं मेलनं कुरुत—

श्लोकांशः स्रोतोग्रन्थः (क) पुराणमित्येव न साधु सर्वम्- मालविकाग्निमित्रम् (ख) प्रारभ्य चोत्तमजनाः न परित्यजन्ति -नीतिशतकम् (ग) यद्यदाचरति श्रेष्ठः- श्रीमद्भगवद्गीता (घ) धृतिः क्षमा दमोऽस्तेयम् -मनुस्मृतिः (ङ) उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः- पञ्चतन्त्रम्

उत्तरक्रमः— (क)—4, (ख)—3, (ग)—5, (घ)—1, (ङ)—2।

  1. रेखाङ्कितेषु पदेषु सन्धिविच्छेदं कुरुत—

यथा— यो बहून्यपि साधयेत् — बहूनि + अपि

(क) धृतिः क्षमा दमोऽस्तेयम्।

उत्तरम्— दमः + अस्तेयम्

(ख) पुराणमित्येव न साधु सर्वम्।

उत्तरम्— पुराणम् + इति + एव

(ग) विघ्नैः पुनरपि प्रतिहन्यमानाः।

उत्तरम्— पुनः + अपि

(घ) प्रारभ्य चोत्तमजनाः न परित्यजन्ति।

उत्तरम्— च + उत्तमजनाः

(ङ) विघ्नविहता विरमन्ति मध्याः।

उत्तरम्— विघ्नविहताः+विरमन्ति

(च) लोकस्तदनुवर्तते।

उत्तरम्— लोकः + तत् + अनुवर्तते

(छ) सन्तः परीक्ष्यान्यतरद्भजन्ते।

उत्तरम्— परीक्ष्य + अन्यतरत् + भजन्ते

  1. अत्र कतिचन विग्रहवाक्यानि दत्तानि सन्ति। तेषां समस्तपदानि पाठात् चित्वा लिखत—

विग्रहवाक्यानि समस्तपदानि यथा— मनसा पूतं समाचरेत्।-- मनःपूतम् (क) विघ्नैः विहताः (कार्यात्) विरमन्ति।- विघ्नविहताः (ख) वस्त्रेण पूतं जलं पिबेत्। -वस्त्रपूतम् (ग) पुरुषः सिंहः इव तम् उपैति लक्ष्मीः। -पुरुषसिंहम् (घ) उत्तमाः जनाः न परित्यजन्ति। -उत्तमजनाः (ङ) न विवेकः परमापदां पदम्।- अविवेकः